Proofing

This page has not been fully proofread.

२०६
 
सूत्रभाष्ये
 
[पा. ३.
 
द्यते । अत्राह - विषम उपन्यास:; तत्र हि तृणपर्णादिवि-
षयं प्रत्यक्षं प्रवृत्तमस्ति, येन तदस्तित्वं प्रतिपद्यते ; अत्र पु-
नर्विभ्युद्देशैकवाक्यभावेन स्तुत्यर्थेऽर्थवादे न पार्थगर्थ्येन वृ-
त्तान्तविषया प्रवृत्तिः शक्याध्यवसातुम् ; न हि महावाक्ये -
ऽर्थप्रत्यायकेऽवान्तरवाक्यस्य पृथक्प्रत्यायकत्वमस्ति ; यथा
'न सुरां पिवेत्' इति नञ्वति वाक्ये पदत्रयसंबन्धात्सुरा-
पानप्रतिषेध एवैकोऽर्थोऽवगम्यते ; न पुनः सुरां पिवेदिति
पदद्वयसंबन्धात्सुरापानविधिरपीति । अत्रोच्यते-- विषम
उपन्यासः; युक्तं यत्सुरापानप्रतिषेधे पदान्वयस्यैकत्वादवा-
न्तरवाक्यार्थस्याग्रहणम्; विध्युद्देशार्थवादयोस्त्वर्थवादस्थानि
पदानि पृथगन्वयं वृत्तान्तविषयं प्रतिपद्य, अनन्तरं
कैमर्थ्यवशेन कामं विधेः स्तावकत्वं प्रतिपद्यन्ते; यथा हि
'वायव्य‍ श्वेतमालभेत भूतिकाम:' इत्यत्र विध्युद्देशवर्तिनां
वायव्यादिपदानां विधिना संबन्धः, नैवम् 'वायुर्वै क्षेपिष्ठा
देवता वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूर्ति
गमयति' इत्येषामर्थवादगतानां पदानाम्; न हि भवति
'वायुर्वा आलभेत' इति 'क्षेपिष्ठा देवता वा आलभेत '
इत्यादि । वायुस्वभावसंकीर्तनेन तु अवान्तरमन्वयं प्रति-
पद्य, एवं विशिष्टदैवत्यमिदं कर्मेति विधिं स्तुवन्ति । तद्य