Proofing

This page has not been fully proofread.

सू. ३३.]
 
प्रथमोऽध्यायः ।
 
२०५
 
'इन्द्रो ह वै देवानामभिप्रवब्राज विरोचनोऽसुराणाम्'
इत्यादि च । स्मार्तमपि च गन्धर्वयाज्ञवल्क्यसंवादादि ॥
 
यदप्युक्तम् 'ज्योतिषि भावाच्च' इति, अत्र ब्रूमः ज्यो-
.तिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेत-
नावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रा-
र्थवादादिषु तथा व्यवहारात् । अस्ति श्वर्ययोगाद्देवतानां
ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं च तं तं विग्रहं ग्रहीतुं
सामर्थ्यम् । तथा हि श्रूयते सुब्रह्मण्यार्थवादे - 'मेघाति-
थेर्मेष— इति — मेधातिथिं ह काण्वायनमिन्द्रो मेषो भूत्वा
जहार' इति । स्मर्यते च -- ' आदित्यः पुरुषो भूत्वा कुन्ती -
मुपजगाम ह' इति । मृदादिष्वपि चेतना अधिष्ठातारोऽभ्यु-
पगम्यन्ते ; 'मृदब्रवीत्' 'आपोऽब्रुवन्' इत्यादिदर्शनात् ।
ज्योदि।देस्तु भूतधातोरादित्यादिष्वप्यचेतनत्वमभ्युपगम्यते ।
चेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारा-
दित्युक्तम् ॥
 
यदप्युक्तम्— मन्त्रार्थवादयोरन्यार्थत्वान्न देवताविग्रहा-
दिप्रकाशनसामर्थ्यमिति, अत्र ब्रूमः - प्रत्ययाप्रत्ययौ हि स-
द्भावासद्भावयोः कारणम् ; नान्यार्थत्वमनन्यार्थत्वं वा; तथा
ह्यन्यार्थमपि प्रस्थितः पथि पतितं तृणपर्णाद्यस्तीत्येव प्रतिप-