Proofing

This page has not been fully proofread.

२०४
 
सूत्रभाष्ये
 
[पा. ३०
 
इतिहासपुराणानामपि पौरुषेयत्वात्प्रमाणान्तरमूलतामाका-
ति ; अर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो न
पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्य-
न्ते ; मन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनो-
Sभिधानार्थं न कस्यचिदर्थस्य प्रमाणमित्याचक्षते; तस्माद-
भावो देवादीनामधिकारस्य ॥
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
 
तु-शब्द: पूर्वपक्षं व्यावर्तयति । वादरायणस्त्वाचार्यो भाव-
मधिकारस्य देवादीनामपि मन्यते । यद्यपि मध्वादिविद्यासु
देवतादिव्यामिश्रास्वसंभवोऽधिकारस्य, तथाप्यस्ति हि शु-
द्धायां ब्रह्मविद्यायां संभव:; अर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्ष-
त्वादधिकारस्य । न च क्वचिदसंभव इत्येतावता यत्र संभव-
स्तत्राप्यधिकारोऽपोद्येत । मनुष्याणामपि न सर्वेषां ब्राह्मणा-
दीनां सर्वेषु राजसूयादिष्वधिकारः संभवति । तत्र
यो न्याय: सोऽत्रापि भविष्यति । ब्रह्मविद्यां च प्रकृत्य
भवति लिङ्गदर्शनं श्रौतं देवाद्यधिकारस्य सूचकम् -- ' तद्यो
यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनु-
ष्याणाम्' इति, 'ते होचुर्हन्त तमात्मानमन्विच्छामो यमा-
त्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वाश्च कामान्' इति,