2026-05-06 05:44:59 by ambuda-bot
This page has not been fully proofread.
सू. ३२.]
प्रथमोऽध्यायः ।
२०३
दिश: पाद:' 'वायुर्वा संवर्ग : ' ' आदित्यो ब्रह्मेत्यादेश: '
इत्यादिषु देवतात्मोपासनेषु न तेषामेव देवतात्मनामधि-
कारः संभवति ; तथा 'इमामेव गौतमभरद्वाजावयं वै गौ-
तमोऽयं भरद्वाज:' इत्यादिष्वपि ऋषिसंवन्धेषूपासनेषु न
तेषामेव ऋषीणामधिकारः संभवति ॥
कुतश्च देवादीनामनधिकारः-
ज्योतिषि भावाच्च ॥ ३२ ॥
यदिदं ज्योतिर्मण्डलं द्युस्थानमहोरात्राभ्यां बम्भ्रमज्जग-
दवभासयति, तस्मिन्नादित्यादयो देवतावचनाः शब्दाः प्रयु-
ज्यन्ते ; लोकप्रसिद्धेर्वाक्यशेषप्रसिद्धेश्च । न च ज्योतिर्मण्ड-.
लस्य हृदयादिना विग्रहेण चेतनतया अर्थित्वादिना वा यो-
गोऽवगन्तुं शक्यते, मृदादिवदचेतनत्वावगमान् । एतेना-
ग्न्यादयो व्याख्याताः ॥
स्यादेतत् — मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां
विग्रहवत्त्वाद्यवगमादयमदोष इति चेत्, नेत्युच्यते ; न ताव-
ल्लोको नाम किंचित्स्वतन्त्रं प्रमाणमस्ति ; प्रत्यक्षादिभ्य एव
अव्यभिचरितविषयेभ्यः प्रमाणेभ्यः प्रसिद्ध एवार्थी लोकात्प्र-
सिद्ध इत्युच्यते ; न चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति ;