2026-05-06 05:44:59 by ambuda-bot
This page has not been fully proofread.
२०२
सूत्रभाष्ये
[पा. ३.
ल्यास्ते सांप्रतैरिह । देवा देवैरतीतार्ह रूपैर्नामभिरेव च '
1
इत्येवंजातीयका द्रष्टव्या ॥
मध्वादिष्वसंभवादनधिकारं
जैमिनिः ॥ ३१ ॥
इह देवादीनामपि ब्रह्मविद्यायामस्त्यधिकार इति यत्प्र-
तिज्ञातं तत्पर्यावर्त्यते— देवादीनामनधिकारं जैमिनिराचार्यो
मन्यते ; कस्मात् ? मध्वादिष्वसंभवात् । ब्रह्मविद्यायामधिका-
राभ्युपगमे हि विद्यात्वाविशेषात् मध्वादिविद्यास्वप्यधिकारो-
ऽभ्युपगम्येत; न चैवं संभवति ; कथम् ? ' असौ वा आदित्यो
देवमधु' इत्यत्र मनुष्या आदित्यं मध्वध्यासेनोपासीरन्; देवा-
दिषु ह्युपासकेष्वभ्युपगम्यमानेष्वादित्यः कथमन्यमादित्यमुपा-
सीत ? पुनश्चादित्यव्यपाश्रयाणि पञ्च रोहितादीन्यमृतान्यनु-
क्रम्य, वसवो रुद्रा आदित्या मरुतः साध्याश्च पञ्च देवगणाः
क्रमेण तत्तदमृतमुपजीवन्तीत्युपदिश्य, 'स य एतदेवममृतं
वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति'
इत्यादिना वस्वाद्युपजीव्यान्यमृतानि विजानतां वस्वादिम-
हिमप्राप्तिं दर्शयति ; वस्वादयस्तु कान् अन्यान् वस्वादीन-
मृतोपजीविनो विजानीयुः ? कं वान्यं वस्वादिमहिमानं प्रे-
सेयुः ? तथा -- 'अग्निः पादो वायुः पाद आदित्यः पादो