2026-05-06 05:44:57 by ambuda-bot
This page has not been fully proofread.
२००
सूत्रभाष्ये
[पा. ३.
11
स्मरन्ति च शौनकादयः— 'मधुच्छन्द: प्रभृतिभिरृषिभिर्दा-
शतय्यो दृष्टाः' इति । प्रतिवेदं चैवमेव काण्डर्ष्यादयः स्मर्य-
न्ते । श्रुतिरपि ऋषिज्ञानपूर्वकमेव मन्त्रेणानुष्ठानं दर्शयति-
'यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याज-
यति वाध्यापयति वा स्थाणुं वच्छेति गर्त वा प्रतिपद्यते '
इत्युपक्रम्य ' तस्मादेतानि मन्त्रे मन्त्रे विद्यात्' इति ।
प्राणिनां च सुखप्राप्तये धर्मो विधीयते ; दुःखपरिहाराय
चाधर्मः प्रतिषिध्यते ; दृष्टानुश्रविकसुखदुःखविषयौ च राग-
द्वेषौ भवतः, न विलक्षणविषयौ — इत्यतो धर्माधर्मफल-
भूतोत्तरोत्तरा सृष्टिर्निष्पद्यमाना पूर्वसृष्टिसदृश्येव निष्पद्यते ।
स्मृतिश्च भवति — ' तेषां ये यानि कर्माणि प्राक्सृष्टयां
प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते
तस्मात्तत्तस्य रोचते' इति । प्रलीयमानमपि चेदं जगच्छ-
क्त्यवशेषमेव प्रलीयते ; शक्तिमूलमेव च प्रभवति ; इतरथा
आकस्मिकत्वप्रसङ्गात् । न चानेकाकाराः शक्तय: शक्याः क-
ल्पयितुम् । ततश्च विच्छिद्य विच्छिद्याप्युद्भवतां भूरादिलोक-
प्रवाहाणाम्, देवतिर्यङ्मनुष्यलक्षणानां च प्राणिनिकायप्रवा-
हाणाम्, वर्णाश्रमधर्मफलव्यवस्थानां चानादौ संसारे नियत-