Proofing

This page has not been fully proofread.

सू. ३०.]
 
प्रथमोऽध्यायः ।
 
१९९
 
न्तरव्यवहाराविच्छेदात्स्वयं च सुषुप्तप्रबुद्धस्य पूर्वप्रबोधन्य-
 
वहारानुसंधानसंभवादविरुद्धम् ; महाप्रलये तु सर्वव्यवहा-
रोच्छेदाज्जन्मान्तरव्यवहारवश्च कल्पान्तरव्यवहारस्यानुसं-
धातुमशक्यत्वाद्वैषम्यमिति । नैष दोषः, सत्यपि सर्वव्यव-
हारोच्छेदिनि महाप्रलये परमेश्वरानुप्रहादीश्वराणां हिरण्यग-
र्भादीनां कल्पान्तरव्यवहारानुसंधानोपपत्तेः । यद्यपि प्रा-
कृताः प्राणिनो न जन्मान्तरव्यवहार मनुसंधाना दृश्यन्त
इति, तथापि न तत्प्राकृतवदीश्वराणां भवितव्यम् । यथा
हि प्राणित्वाविशेषेऽपि मनुष्यादिस्तम्बपर्यन्तेषु ज्ञानैश्व-
र्यादिप्रतिबन्धः परेण परेण भूयान् भवन् दृश्यते ;
तथा मनुष्यादिष्वेव हिरण्यगर्भपर्यन्तेषु ज्ञानैश्वर्याद्यभिव्य-
क्तिरपि परेण परेण भूयसी भवतीत्येतच्छ्रुतिस्मृतिवादे-
ष्वसकृदेवानुकल्पादौ प्रादुर्भवतां पारमैश्वर्ये श्रूयमाणं न
शक्यं नास्तीति वदितुम् । ततश्चातीतकल्पानुष्ठितप्रकृष्ट-
ज्ञानकर्मणामीश्वराणां हिरण्यगर्भादीनां वर्तमानकल्पादौ प्रा-
दुर्भवतां परमेश्वरानुगृहीतानां सुप्तप्रतिबुद्धवत्कल्पान्तरव्य-
बहारानुसंधानोपपत्तिः । तथा च श्रुतिः - 'यो ब्रह्माणं
विदधाति पूर्व यो वै वेदाश्च प्रहिणोति तस्मै । तर हि
देवमात्मवुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये' इति ।