Proofing

This page has not been fully proofread.

१.९८
 
सूत्रभाष्ये
 
[पा. ३.
 
अथापि स्यात् — यदि पश्वादिव्यक्तिवद्देवादिव्यक्तयो -
ऽपि संतत्यैवोत्पद्येरन् निरुध्येरंश्च ततोऽभिधानाभिधेया-
भिधातृव्यवहाराविच्छेदात्संबन्धनित्यत्वेन विरोधः शब्दे
परिह्नियेत । यदा तु खलु सकलं त्रैलोक्यं परित्यक्तनामरूपं
निर्लेपं प्रलीयते, प्रभवति चाभिनवमिति श्रुतिस्मृतिवादा
वंदन्ति, तदा कथमविरोध इति । तत्रेदमभिधीयते समा-
ननामरूपत्वादिति । तदापि संसारस्यानादित्वं तावदभ्युप-
गन्तव्यम् । प्रतिपादयिष्यति चाचार्यः संसारस्यानादित्वम्
- ' उपपद्यते चाप्युपलभ्यते च' इति । अनादौ च सं-
सारे यथा स्वापप्रबोधयोः प्रलयप्रभवश्रवणेऽपि पूर्वप्रबोध-
वदुत्तरप्रबोधेऽपि व्यवहारान्न कश्चिद्विरोधः, एवं कल्पा-
न्तरप्रभवप्रलययोरपीति द्रष्टव्यम् । स्वापप्रबोधयोश्च प्रलय-
प्रभवौ श्रूयेते- 'यदा सुप्तः स्वप्नं न कंचन पश्यत्यथा-
स्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहा-
प्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः शब्दैः सहा-
प्येति मनः सर्वैर्ध्यानैः सहाप्येति स यदा प्रतिबुध्यते
यथाभेलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवै-
तस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो
देवा देवेभ्यो लोका:' इति । स्यादेतत् — स्वापे पुरुषा-