2026-05-06 05:44:54 by ambuda-bot
This page has not been fully proofread.
सू. ३०.]
प्रथमोऽध्यायः ।
१९७
णाः स्फोटं व्यञ्जयन्ति स स्फोटोऽर्थं व्यनक्तीति गरीयसी
कल्पना स्यात् ॥
अथापि नाम प्रत्युच्चारणमन्येऽन्ये वर्णाः स्युः, तथापि
प्रत्यभिज्ञालम्वनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्य-
त्वात्, वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु
संचारयितव्या । ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्ती-
नां प्रभव इत्यविरुद्धम् ॥
अत एव च नित्यत्वम् ॥ २९ ॥
कर्तुरस्मरणादिति स्थिते वेदस्य नित्यत्वे देवादिव्य-
क्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्कध ' अतः प्रभवात् '
इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयति---
अत एव च नित्यत्वमिति । अत एव नियताकृतेर्देवादेर्जगतो
वेदशब्दप्रभवत्वात् वेदशब्द नित्यत्वमपि प्रत्येतव्यम् । तथा च
मन्त्रवर्णः - 'यज्ञेन वाचः पदवीयमायस्तामन्वविन्दन्नृषिषु
प्रविष्टाम्' इति स्थितामेव वाचमनुविन्नां दर्शयति । वेदव्या-
सश्चैवमेव स्मरति -- ' युगान्ते ऽन्तर्हितान्वेदान्सेतिहासान्मह-
र्षयः । लेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवा' इति ॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो
दर्शनात्स्मृतेश्च ॥ ३० ॥