Proofing

This page has not been fully proofread.

१९६
 
सूत्रभाष्ये
 
[पा. ३.
 
द़य इव गकारादयोऽप्यस्या बुद्धेर्व्यावर्तेरन् ; न तु तथास्ति;
 
तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः । नन्वनेकत्वाद्वर्णानां
नैकबुद्धिविषयतोपपद्यत इत्युक्तम्, तत्प्रति ब्रूमः - संभवत्यने
कस्याप्येकबुद्धिविषयत्वम्, पङ्क्तिः वनं सेना दश शतं सहस्र-
मित्यादिदर्शनात्; या तु गौरित्येकोऽयं शब्द इति बुद्धि:,
सा वहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धना औपचारिकी वनसे-
नादिबुद्धिवदेव । अत्राह — यदि वर्णा एव सामस्त्येन ए-
कबुद्धिविषयतामापद्यमानाः पदं स्युः, ततो जारा राजा क-
पिः पिक इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात् ; त एव हि व-
र्णा इतरत्रेतरत्र च प्रत्यवभासन्त इति ; अत्र वढ़ा-
मः――सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव
पिपीलिकाः पङ्क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधिन एव हि
वर्णाः पदबुद्धिमारोक्ष्यन्ति ; तत्र वर्णानामविशेषेऽपि क्रमवि-
शेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते ; वृद्धव्यवहारे चेमे
वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसंबन्धाः सन्तः स्व-
व्यवहारेऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ
तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्या-
ययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना । स्फोटवादि-
नस्तु दृष्टहानिः, अदृष्टकल्पना च ; वर्णाश्चेमे क्रमेण गृह्यमा-