Proofing

This page has not been fully proofread.

सू. २८.]
 
प्रथमोऽध्यायः ।
 
१९५
 
रति; प्रत्यासीदतश्च पटुमृदुत्वादिभेदं वर्णेष्वासञ्जयति ;
तन्निबन्धनाश्चोदात्तादयो विशेषाः, न वर्णस्वरूपनिबन्धनाः,
वर्णानां प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्; एवं च सति
सालम्बना एवैते उदात्तादिप्रत्यया भविष्यन्ति ; इतरथा
हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृ-
ता उदात्तादिविशेषाः कल्प्येरन् ; संयोगविभागानां चाप्रत्य-
क्षत्वान्न तदाश्रया विशेषाः वर्णेष्वध्यवसातुं शक्यन्त इत्य-
तो निरालम्बना एव एते उदात्तादिप्रत्ययाः स्युः । अपि च
नैवैतदभिनिवेष्टव्यम् — उदात्तादिभेदेन वर्णानां प्रत्यभिज्ञाय-
मानानां भेदो भवेदिति ; न ह्यन्यस्य भेदेनान्यस्याभिद्यमा-
नस्य भेदो भवितुमर्हति ; न हि व्यक्तिभेदेन जातिं भिन्नां
मन्यन्ते । वर्णेभ्यश्चार्थप्रतीतेः संभवात् स्फोटकल्पनानर्थिका ।
न कल्पयाम्यहं स्फोटम्, प्रत्यक्षमेव त्वेनमवगच्छामि, एकैक-
वर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यवभासनादिति
चेत्, न ; अस्या अपि बुद्धेर्वर्णविषयत्वात्; एकैकवर्णग्रहणो-
त्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया, नार्थान्तर-
विषया; कथमेतदवगम्यते ? यतोऽस्यामपि बुद्धौ गकारा-
दयो वर्णा अनुवर्तन्ते, न तु दकारादयः ; यदि ह्यस्या बुद्धे-
र्गकारादिभ्योऽर्थान्तरं स्फोटो विषयः स्यात्, ततो दकारा-