Proofing

This page has not been fully proofread.

१९४
 
सूत्रभाष्ये
 
[पा. ३.
 
गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरन्, तत
आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् ; न त्वेतदस्ति ; वर्णव्यक्तय
एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते ; द्विर्गोशब्द उच्चारित:-
इति हि प्रतिपत्तिः ; न तु द्वौ गोशब्दाविति । ननु वर्णा-
अप्युच्चारणभेदेन भिन्नाः प्रतीयन्ते, देवदत्तयज्ञदत्तयोरध्ययन-
ध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम् ; अन्त्राभिधीयते —— सति
वर्णविषये निश्चिते प्रत्यभिज्ञाने, संयोगविभागाभिव्यङ्गथ-
त्वाद्वर्णानाम्, अभिव्यञ्जकवैचित्र्यनिमित्तोऽयं वर्णविषयो
विचित्रः प्रत्ययः, न स्वरूपनिमित्त:; अपि च वर्णव्यक्तिभे-
दवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः ;
तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम; तद्वरं
वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः, स्वरूपनिमित्तं च
प्रत्यभिज्ञानम् - इति कल्पनालाघवम् । एष एव च वर्ण-
विषयस्य भेदप्रत्ययस्य बाधकः प्रत्यय:, यत्प्रत्यभिज्ञानम् ।
कथं ह्येकस्मिन्काले बहूनामुच्चारयतामेक एव सन् गकारो
युगपदनेकरूपः स्यात् -- उदात्तश्चानुदात्तश्च स्वरितश्च सानु -
नासिकश्च निरनुनासिकश्चेति; अथवा ध्वनिकृतोऽयं भेदप्र-
त्ययो न वर्णकृत इत्यदोषः । कः पुनरयं ध्वनिर्नाम ? यो
दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवत-