2026-05-06 05:44:53 by ambuda-bot
This page has not been fully proofread.
सू. २८.]
प्रथमोऽध्यायः ।
१९३
च वर्णसमुदायप्रत्ययोऽस्ति, क्रमवर्तित्वाद्वर्णानाम्; पूर्वपूर्वव-
र्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति
यद्युच्येत, तन्न; संबन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीय-
मानोऽर्थं प्रत्याययेत्, धूमादिवत् ; न च पूर्वपूर्ववर्णानुभवज-
नितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्सं-
स्काराणाम् ; कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थे
प्रत्याययिष्यतीति चेत्, न ; संस्कारकार्यस्यापि स्मरणस्य क्रम-
वर्तित्वात् ; तस्मात्स्फोट एव शब्दः । स चैकैकवर्णप्रत्यया-
हितसंस्कारवीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्र-
त्ययविषयतया झटिति प्रत्यवभासते ; न चायमेकप्रत्ययो व-
र्णविषया स्मृतिः, वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्ते: ;
तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम्, भेदप्रत्य-
यस्य वर्णविषयत्वात् । तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधा-
यकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति ॥
'
'वर्णा एव तु शब्द:' इति भगवानुपवर्ष: । ननूत्पन्न-
प्रध्वंसित्वं वर्णानामुक्तम् ; तन्न, त एवेति प्रत्यभिज्ञानात्; सा-
दृश्यात्प्रत्यभिज्ञानं केशादिष्विवेति चेत्, न; प्रत्यभिज्ञानस्य
प्रमाणान्तरेण बाधानुपपत्तेः ; प्रत्यभिज्ञानमाकृतिनिमित्त-
मिति चेत्, न; व्यक्तिप्रत्यभिज्ञानात् ; यदि हि प्रत्युच्चारणं
S. W. 1. 13