Proofing

This page has not been fully proofread.

१९२
 
सूत्रभाष्ये
 
1
 
[पा. ३
 
प्रवर्तनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वर: '
इति । 'सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ' इति च;
अपि च चिकीर्षितमर्थमनुतिष्ठन् तस्य वाचकं शब्दं पूर्व
स्मृत्वा पश्चात्तमर्थमनुतिष्ठतीति सर्वेषां नः प्रत्यक्षमेतत् ;
तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्व वैदिकाः शब्दा मनसि
प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते ; तथा च
श्रुति: स भूरिति व्याहरत् स भूमिमसृजत' इत्येवमा-
दिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलो-
कान्सृष्टान्दर्शयति ॥
 
किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ?
स्फोटम् इत्याह । वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्ये-
भ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात् ।
उत्पन्नध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा च प्र-
तीयमानत्वात् ; तथा ह्यदृश्यमानोऽपि पुरुषविशेषो ऽध्ययनध्व-
निश्रवणादेव विशेषतो निर्धार्यते—' देवदत्तोऽयमधीते, यज्ञ-
दत्तोऽयमधीते' इति ; न चायं वर्णविषयोऽन्यथात्वप्रत्ययो
मिथ्याज्ञानम्, बाधकप्रत्ययाभावात् । न च वर्णेभ्योऽर्थावग-
तिर्युक्ता ; न ह्येकैको वर्णोऽर्थे प्रत्याययेत्, व्यभिचारात्; न