2026-05-06 05:44:53 by ambuda-bot
This page has not been fully proofread.
"
1
प्रथमोऽध्यायः ।
१९१
सू. २८.]
द्यवगमांदवगन्तत्र्यः । स्थानविशेषसंबन्धनिमित्ता वा इन्द्रा-
दिशब्दा: सेनापत्यादिशब्दवत् । ततश्च यो यस्तत्तत्स्थानम-
धितिष्ठति स स इन्द्रादिशब्दैरभिधीयत इति न दोषों
भवति । न चेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकार-
णत्वाभिप्रायेणोच्यत । कथं तर्हि, स्थिते वाचकात्मना नित्ये
शब्दे नित्यार्थसंबन्धिनि शब्दव्यवहारयोग्याथैव्यक्तिनिष्प-
त्ति: ' अतः प्रभवः' इत्युच्यते । कथं पुनरवगम्यते शब्दा-
त्प्रभवति जगदिति ? - प्रत्यक्षानुमानाभ्याम् ; प्रत्यक्षं हि
श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात्; अनुमानं स्मृतिः, प्रामाण्यं
प्रति सापेक्षत्वात् ; ते हि शब्दपूर्वी सृष्टिं दर्शयतः ; ' एत
इति वै प्रजापतिर्देवान सृजतासृप्रमिति मनुष्यांनिन्दव इति
पितॄंस्तिरः पवित्रमिति प्रहानाश्व इति स्तोत्रं विश्वानीति
शस्त्रमभिसौभगेत्यन्याः प्रजाः इति श्रुतिः; तथान्यत्रापि
' स मनसा वाचं मिथुनं समभवत्' इत्यादिना तत्र तत्र
शब्दपूर्विका सृष्टिः श्राव्यते; स्मृतिरपि : ' अनादिनि
धना नित्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्यां
यतः सर्वाः प्रवृत्तयः' इति उत्सर्गोऽप्ययं वाचः संप्रदा
प्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनायाः अन्यादृशस्यो -
त्सर्गम्यासंभवान् ; तथा 'नाम रूपं च भूतानां कर्मणां चं
LO
2.