2026-05-06 05:44:52 by ambuda-bot
This page has not been fully proofread.
१९०
सूत्रभाष्ये
[पा. ३.
प्रभवात् । अत एव हि वैदिकच्छावादिकं जगत्प्रभ-
वति ॥
ननु ' जन्माद्यस्य यत: ' इत्यत्र ब्रह्मप्रभवत्वं जगतोऽव-
धारितम्, कथमिह शब्दप्रभवत्वमुच्यते ? अपि च यदि नाम
वैदिकाच्छब्दादस्य प्रभवोऽभ्युपगतः, कथमेतावता विरोध:
शब्दे परिहृतः ? यावता वसवो रुद्रा आदित्या विश्वेदेवा
मरुत इत्येतेऽर्था अनित्या एव, उत्पत्तिमत्त्वात् तदनित्य-
त्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन
निवार्यते ? प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने
यज्ञदत्त इति तस्य नाम क्रियत इति; तस्माद्विरोध एव
शब्द इति चेत्, न; गवादिशब्दार्थसंबन्धनित्यत्वदर्शनात ।
न हि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनामप्युत्पत्ति-
मत्त्वं स्यात् । द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पदान्ते;
नाकृतयः । आकृतिभिश्च शब्दानां संबन्धः न व्यक्तिभिः,
व्यक्तीनामानन्त्यात्संबन्धग्रहणानुपपत्तेः । व्यक्तिषूत्पद्यमा-
नास्वप्याकृतीनां नित्यत्वात् न गवादिशब्देषु कश्चिद्विरोधो
दृश्यते । तथा देवादिव्यक्तिप्रभवाभ्युपगमेऽप्याकृतिनित्य-
त्वात् न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम् ।
आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वा-
·
: