2026-05-06 05:44:51 by ambuda-bot
This page has not been fully proofread.
सु. २८.]
प्रथमोऽध्यायः ।
१८९
र्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते ; कचिदेकोऽपि
विग्रहवानेकत्र युगपदङ्गभावं न गच्छति, यथा बहुभिर्भोज-
यद्भिर्नैको ब्राह्मणो युगपद्भोज्यते ; क्वचिच्चैकोऽपि विग्रहवान-
नेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको
ब्राह्मणो युगपन्नमस्क्रियते ; तद्वदिहोद्देशपरित्यागात्मकत्वान्
यामस्य विग्रहवतीमध्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं
युगपत्परित्यक्ष्यन्तीति विग्रहवत्वेऽपि देवानां न किंचित्क-
मणि विरुध्यते ॥
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानु-
मानाभ्याम् ॥ २८ ॥
मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि
कश्चिद्विरोधः प्रसञ्जि ; शब्दे तु विरोध: प्रसज्येत । कथम् ?
औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य 'अनपेक्षत्वात् '
इति वेदस्य प्रामाण्यं स्थापितम् । इदानीं तु विग्रहवंती देव-
ताभ्युपग़म्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसंबन्धीनि
हवींषि भुञ्जीत, तथापि विग्रहयोगादस्मदादिवज्जननमरण-
वर्ती सेति, नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धे
प्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितम्, तस्य विरोध:
स्यादिति चेत्, नायमप्यस्ति विरोधः; कस्मात् ? अतः