Proofing

This page has not been fully proofread.

१८८
 
सूत्रभाष्ये
 
[पा. ३.
 
यमस्ति विरोध: ; कस्मात् ? अनेकप्रतिपत्तेः । एकस्यापि
देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः संभवति । कथमे-
तदवगम्यते ? दर्शनात् । तथाहि-- ' कति देवा:' इत्युप-
क्रम्य ' त्रयश्व ती च शता त्रयश्च त्री च सहस्रा' इति
निरुच्य ' कतमे ते ' इत्यस्यां पृच्छायाम् 'महिमान एवै-
षामेते त्रयस्त्रिंशत्त्वेव देवा:' इति ब्रुवती श्रुतिः एकैकस्य
देवतात्मनो युगपदनेकरूपतां दर्शयति । तथा त्रयस्त्रिंशतो-
ऽपि षडाद्यन्तर्भावक्रमेण 'कतम एको देव इति प्राण: '
इति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य
युगपदनेकरूपतां दर्शयति । तथा स्मृतिरपि -- 'आत्मनो
वै शरीराणि बहूनि भरतर्षभ । योगी कुर्याद्वलं प्राप्य तैश्च
सर्वैर्महीं चरेत् ॥ प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ।
संक्षिपेश्च पुनस्तानि सूर्यो रश्मिगणानिव' इत्येवंजाती-
यका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं
दर्शयति ; किमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेक-
रूपप्रतिपत्तिसंभवाच्च एकैका देवता बहुभी रूपैरात्मानं
प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छतीति । परैश्च न
दृश्यते, अन्तर्धानादिशक्तियोगात् — इत्युपपद्यते । ' अनेकप्र-
तिपत्तेर्दर्शनात्' इत्यस्यापरा व्याख्या — विग्रहवतामपि क-