2026-05-06 05:44:50 by ambuda-bot
This page has not been fully proofread.
सू. २.७.]
प्रथमोऽध्यायः ।
१८७
नयनस्य वेदाध्ययनार्थत्वात् तेषां च स्वयंप्रतिभातवेदत्वात;
अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयति – ' एकशतं ह
वै.. वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास' 'भृगुर्वै वारुणिः ।
वरुणं पितरमुपससार । अधीहि भगवो ब्रह्म' इत्यादि ।
यदपि कर्मस्वनधिकारकारणमुक्तम् — 'न देवानां देवतान्त-
राभावात' इति, 'न ऋषीणाम्, आर्षेयान्तराभावात्' इति ;
न तद्विद्यासु अस्ति । न हीन्द्रादीनां विद्यास्वधिक्रियमा-
णानामिन्द्राद्युद्देशेन किंचित्कृत्यमस्ति ; न च भृग्वादीनां
भृग्वादिसगोत्रतया । तस्माद्देवादीनामपि विद्यास्वधिकारः
केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया
न विरुध्येत ॥
विरोधः कर्मणीति चेन्नानेकप्रति-
पत्तेर्दर्शनात् ॥ २७ ॥
स्यादेतत् — यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां
विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रा-
दीनामपि स्वरूपसंनिधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा
च विरोधः कर्मणि स्यात्; न हीन्द्रादीनां स्वरूपसंनिधा-
नेन यागाङ्गभावो दृश्यते; न च संभवति, बहुषु यागेपु
युगपदेकस्येन्द्रस्य स्वरूपसंनिधानानुपपत्तेरिति चेत्, ना-