2026-05-06 05:44:50 by ambuda-bot
This page has not been fully proofread.
१८६
सूत्रभाष्ये
[पा. ३.
इति । द्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिः — क्वचित्परमा-
त्मस्वरूपनिरूपणपरा ; कचिद्विज्ञानात्मनः परमात्मैकत्वो पढ़े-
शपरा । तदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते ; ना-
ङ्गुष्ठमात्रत्वं कस्यचित् । एतमेवार्थे परेण स्फुटीकरिष्यति -
'
अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये संनिवि-
ष्टः । तं स्वाच्छरीरात्प्रवृन्मुखादिवेषीकां धैर्येण; तं विद्या-
छुक्रममृतम्' इति ॥
तदुपर्यपि बादरायणः संभवात् ॥ २६ ॥
अङ्गुष्ठमात्र श्रुतिर्मनुष्यहृदयापेक्षा मनुष्याधिकारत्वाच्छा-
स्त्रस्येत्युक्तम् ; तत्प्रसङ्गेनेदमुच्यते । वाढम, मनुष्यानधिकरो-
८. देवता- ति शास्त्रम् ; न तु मनुष्यानेवेति इह ब्रह्मज्ञाने
धिकरणम्। नियमोऽस्ति । तेषां मनुष्याणाम् उपरिष्टा-
ये देवादय:, तानप्यधिकरोति शास्त्रमिति वादरायण आचा-
र्यो मन्यते ; कस्मात् ? संभवात् । संभवति हि तेषामप्यर्थि-
स्वाद्यधिकारकारणम् ; तत्रार्थित्वं तावन्मोक्षविषयं देवादी-
'नामपि संभवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमि-
तम् ; तथा सामर्थ्यमपि तेषां संभवति, मन्त्रार्थवादेतिहास-
पुराणलोकंभ्यो विग्रहवत्त्वाद्यवगमात् ; न च तेषां कश्चित्प्रति-
षेधोऽस्ति ; न चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उप-