Proofing

This page has not been fully proofread.

सू. २.५.]
 
प्रथमोऽध्यायः ।
 
१८५
 
ईशान इति परमेश्वरोऽवगम्यत इत्यर्थः ॥
 
कथं पुनः सर्वगतस्य परमात्मन: परिमाणोपदेश इत्यव
 
ब्रूमः -
 
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
 

 
सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमा-
त्रत्वमिदमुच्यते ; आकाशस्येव वंशपर्वापेक्षमरनिमात्रत्वम् ।
न ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते । न
चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्यु-
क्तम् । ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षम-
प्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यते — मनुष्याधि-
कारत्वादिति ; शास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरो-
ति ; शक्तत्वात्, अर्थित्वात्, अपर्युदस्तत्वात् उपनयनादि-
शास्त्राच्च — इति वर्णितमेतदधिकारलक्षणे । मनुष्याणां च नि-
यतपरिमाणः काय: ; औचित्येन नियतपरिमाणमेव चैषाम-
;
ङ्गुष्ठमात्रं हृदयम् ; अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्य-
हृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनः । यदप्यु-
तम - परिमाणोपदेशात स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्ये-
तथ्य इति ; तत्प्रत्युच्यते - ' स आत्मा तत्त्वमसि' इत्यादि-
वत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत
 
1