Proofing

This page has not been fully proofread.

१८४
 
सूत्रभाष्ये
 
[प्रा. ३.
 
''अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति' इति श्रूयते ;
तथा 'अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः । ईशानो भूत-
७. प्रमिताधि- भव्यस्य स एवाद्य स उ व एतद्वै तत्'
 
करणम् । इति च । तत्र योऽयमङ्गुष्ठमात्रः पुरुषः
श्रूयते, स किं विज्ञानात्मा, किं वा परमात्मेति संशयः ।
तत्र परिमाणोपदेशाद्विज्ञानात्मेति तावत्प्राप्तम् । न ह्यनन्ता-
यामविस्तारस्य परमात्मनोऽङ्गुष्ठपरिमाणत्वमुपपद्यते ; विज्ञा-
नात्मनस्तूपाधिमत्त्वात्संभवति कयाचित्कल्पनयाङ्गुष्ठमात्र-
त्वम् । स्मृतेश्च — 'अथ सत्यवतः कायात्पाशबद्धं वशं
गतम् । अङ्गुष्ठमात्रं पुरुषं निश्वकर्ष यमो बलात्' इति ;
न हि परमेश्वरो वलात् यमेन निष्क्रष्टुं शक्यः; तेन तत्र
संसारी अङ्गुष्ठमात्रो निश्चित: ; स एवेहापीत्येवं प्राप्ते-
 
ब्रूमः — परमात्मैवायमङ्गुष्ठमात्र परिमितः पुरुषो भवितुम-
र्हति । कस्मात् ? शब्दात् — 'ईशानो भूतभव्यस्य' इति ।
न ह्यन्यः परमेश्वराद्भूतभव्यस्य निरङ्कुशमीशिता । ' एतद्वै
तत्' इति च प्रकृतं पृष्टमिहानुसंदधाति ; एतद्वै तत्,
यस्पृष्टं ब्रह्मेत्यर्थः ; पृष्टं चेह ब्रह्म — 'अन्यत्र धर्मादन्यत्रा-
धर्मादन्यत्रास्मात्कृताकृतान् । अन्यत्र भूताच्च भव्याच्च यत्त-
त्पश्यसि तद्वद्व' इति । शब्दादेवेति — अभिधानश्रुतेरेव -