Proofing

This page has not been fully proofread.

सू. २४.]
 
प्रथमोऽध्यायः ।
 
१८३
 
दिना; अनन्तरं च ' हिरण्मये परे कोशे विरजं ब्रह्म नि-
कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ?
इति; कथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — 'न
तत्र सूर्यो भाति' इति । यदप्युक्तम् सूर्यादीनां तेजसां भान-
प्रतिषेधस्तेजे।धातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति;
तत्र तु स एव तेजोधातुरन्यो न संभवतीत्युपपादितम् ।
ब्रह्मण्यपि चैषां भानप्रतिषेधो ऽवकल्पते; यतः - यदुप-
लभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यते ; ब्रह्म तु नान्येन
ज्योतिषोपलभ्यते, स्वयं ज्योतिःस्वरूपत्वात्, येन सूर्यादय-
स्तस्मिन्भायुः ; ब्रह्म हि अन्यद्वयनक्ति, न तु ब्रह्मान्येन
व्यज्यते,
'आत्मनैवायं ज्योतिषास्ते ' 'अगृह्यो न हि गृ-
 
ह्यते' इत्यादिश्रुतिभ्यः ॥
 
अपि च स्मर्यते ॥ २३ ॥
 
अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु---
'न तद्भासयते सूर्यो न शशाङ्को न पावकः । यद्गत्वा न
निवर्तन्ते तद्धाम परमं मम' इति । यदादित्यगतं तेजो
जगद्भासंयतेऽखिलम् । यच्चन्द्रमसि यचाग्नौ तत्तेजो विद्धि
 
मामकम् इति च ॥
 
:
 
:
 
शब्दादेव प्रमितः ॥ २४ ॥