2026-05-06 05:44:49 by ambuda-bot
This page has not been fully proofread.
१८२
सूत्रभाष्ये
[पा. ३.
समत्वाञ्च तेजोधातूनां सूर्यादीनां न तेजोधातुमन्यं प्रत्य-
पेक्षास्ति, यं भान्तमनुभायुः ; न हि प्रदीपः प्रदीपान्त-
रमनुभाति । यदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत
इति - नायमेकान्तो नियम: ; भिन्नस्वभावकेष्वपि धनु-
कारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरनिं दह-
न्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । 'अ-
नुकृते:' इत्यनुभानमसुसूचत्; 'तस्य च' इति चतुर्थ पाद-
मस्य श्लोकस्य सूचयति । ' तस्य भासा सर्वमिदं विभाति'
इति च तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गम-
यति । 'तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्' इति
हि प्राज्ञमात्मानमामनन्ति । तेजोन्तरेण तु सूर्यादितेजो
विभातीत्यप्रसिद्धम, विरुद्धं च; तेजोन्तरेण तेजोन्तरस्य प्र-
तिघातात् । अथवा न सूर्यादीनामेव श्लोकपरिपठितानामिदं
तद्धेतुकं विभानमुच्यते ; किं तर्हि, 'सर्वमिदम' इत्यविशे-
पश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अ-
भिव्यक्तिः, सा ब्रह्मज्योतिः सत्तानिमित्ता ; यथा सूर्यज्योति:-
सत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्ति:, तद्वत् । न तत्र
सूर्यो भाति' इति च तत्र - शब्दमाहरन्प्रकृतग्रहणं दर्शयति ;
प्रकृतं च ब्रह्म 'यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्' इत्या-