2026-05-06 05:44:49 by ambuda-bot
This page has not been fully proofread.
सू. २२.]
प्रथमोऽध्यायः ।
अनुकृतेस्तस्य च ॥ २२ ॥
१८१
'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति
कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वे तस्य भासा
६. अनुकृत्य -
'सर्वमिदं विभाति' इति समामनन्ति ।
"
धिकरणम् । तत्र यं भान्तमनुभाति सर्वे यस्य च भा-
सा सर्वमिदं विभाति, स किं तेजोधातुः कश्चित् उतं प्राज्ञ
आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम् । कुत: ?
तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात् । तेज: स्वभावकं
हि चन्द्रतारकादि तेज: स्वभावक एव सूर्ये भासमाने अहनि
न भासत इति प्रसिद्धम् । तथा सह सूर्येण सर्वमिदं चन्द्र-
तारकादि यस्मिन्न भासते, सोऽपि तेज: स्वभाव एव कश्चि-
दित्यवगम्यते । अनुभानमपि तेज:स्वभावक एवोपपद्यते,
समानस्वभावकेष्वनुकारदर्शनात् ; 'गच्छन्तमनुगच्छति' इति-
वत् । तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते—
ब्रूमः — प्राज्ञ एवायमात्मा भवितुमर्हति । कस्मात् ?
अनुकृते: ; अनुकरणमनुकृतिः ; यदेतत् 'तमेव भान्तम-
नुभाति सर्वम्' इत्यनुभानम्, तत्प्राज्ञपरिग्रहेऽवकल्पते;
'भारूपः सत्यसंकल्पः' इति हि प्राज्ञमात्मानमामनन्ति ;
न तु तेजोधातुं कंचित्सूर्यादयोऽनुभान्तीति प्रसिद्धम् ;