2026-05-05 04:48:21 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>एकादशोऽध्यायः ।
३३५
</ignore>
<p>भक्त्या तु किंविशिष्टया इति आह— अनन्यया
अपृथग्भूतया, भगवतः अन्यत्र पृथक् न कदाचिदपि या
भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवा-
दन्यत् न उपलभ्यते यया, सा अनन्या भक्तिः, तया
भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकार :रः हे अर्जुन,
ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षा-
त्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परंतप ॥
</p>
<p>अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेय-
सार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते--
—</p>
<verse>मत्कर्मकृन्मत्परमो
मद्भक्तः सङ्गवर्जितः ।
निर्वैरः सर्वभूतेषु
यः स मामेति पाण्डव ॥ ५५ ॥
</verse>
<trailer>इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म-
विद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विश्वरूपदर्शनयोगो नाम
एकादशोऽध्यायः ॥
</trailer>
</page>
<ignore>एकादशोऽध्यायः ।
<p>भक्त्या तु किंविशिष्टया इति आह— अनन्यया
अपृथग्भूतया, भगवतः अन्यत्र पृथक् न कदाचिदपि या
भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवा-
दन्यत् न उपलभ्यते यया, सा अनन्या भक्तिः, तया
भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रका
ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षा-
त्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परंतप ॥
<p>अधुना सर्वस्य गीताशास्त्रस्य सारभूतः अर्थः निःश्रेय-
सार्थः अनुष्ठेयत्वेन समुच्चित्य उच्यते