Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३३४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
रूपं दृष्टवान् असि यत् मम, देवाः अपि अस्य मम रूपस्य

नित्यं सर्वदा दर्शनकाङ्क्षिणः ; दर्शनेप्सवोऽपि न त्वमिव

दृष्टवन्तः, न द्रक्ष्यन्ति च इति अभिप्राय:यः
 
</p>
<p>
कस्मात् ?
 
11
 
---</p>
<verse>
नाहं वेदैर्न तपसा
 

न दानेन न चेज्यया ।

शक्य एवंविधो द्रष्टुं
 

दृष्टवानसि मां यथा ॥ ५३ ॥
 
</verse>
<p>
न अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, न तपसा

उग्रेण चान्द्रायणादिना, न दानेन गोभूहिरण्यादिना, न च

इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकार:
रः
द्रष्टुं दृष्टवान् असि मां यथा त्वम् ॥
 
</p>
<p>
कथं पुनः शक्यः इति उच्यते-
 
—</p>
<verse>
भक्त्या त्वनन्यया शक्य
 

अहमेवंविधोऽर्जुन ।
 

ज्ञातुं द्रष्टुं च तत्त्वेन
 

प्रवेष्टुं च परंतप ॥ ५४ ॥
 
</verse>
</page>