2026-05-05 04:49:52 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>एकादशोऽध्यायः ।
३३३
</ignore>
<p>स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः
पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम् ,
भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥
</p>
<p>अर्जुन उवाच-
—</p>
<verse>दृष्ट्वेदं मानुषं रूपं
तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः
सचेताः प्रकृतिं गतः ॥ ५१ ॥
</verse>
<p>दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जना -
र्दन, इदानीम् अधुना अस्मि संवृत्तः संजातः । किम् ?
सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥
</p>
<verse>श्रीभगवानुवाच-
—
सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
</verse>
<p merge-next="true">सुदुर्दर्शशं सुष्ठु दुःखेन दर्शनम् अस्य इति सुदुर्दर्शम् , इदं
"
</p>
</page>
<ignore>एकादशोऽध्यायः ।
<p>स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः
पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम् ,
भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥
<p>अर्जुन उवाच
<verse>दृष्ट्वेदं मानुषं रूपं
तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः
सचेताः प्रकृतिं गतः ॥ ५१ ॥
<p>दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जना
र्दन, इदानीम् अधुना अस्मि संवृत्तः संजातः । किम् ?
सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥
<verse>श्रीभगवानुवाच
सुदुर्दर्शमिदं रूपं
दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य
नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥
<p merge-next="true">सुदुर्दर्
"
</page>