2026-05-05 04:50:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>३३२
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलोकेंके मनुष्य-
लोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥
</p>
<verse>मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
</verse>
<p>मा ते व्यथा मा भूत् ते भयम् , मा च विमूढभाव:
वः
विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं
मम इदम् । व्यपेतभीः विगतभयः, प्रीतमनाश्च सन्
पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तब
व
इष्टं रूपम् इदं प्रपश्य ॥
</p>
<verse>संजय उवाच-
—
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥
</verse>
<p merge-next="true">इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा,
</p>
</page>
<ignore>३३२
<p>यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलो
लोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥
<verse>मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
<p>मा ते व्यथा मा भूत् ते भयम् , मा च विमूढभा
विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं
मम इदम् । व्यपेतभीः विगतभयः, प्रीतमनाश्च सन्
पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं त
इष्टं रूपम् इदं प्रपश्य ॥
<verse>संजय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥
<p merge-next="true">इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा,
</page>