Proofing

This page has not been fully proofread.

३३२
 
श्रीमद्भगवद्गीताभाष्ये
 
यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलोकें मनुष्य-
लोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥
 
मा ते व्यथा मा च विमूढभावो
दृष्ट्वा रूपं घोरमीदृङ्ममेदम् ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
 
तदेव मे रूपमिदं प्रपश्य ॥ ४९ ॥
 
मा ते व्यथा मा भूत् ते भयम्, मा च विमूढभाव:
विमूढचित्तता, दृष्ट्वा उपलभ्य रूपं घोरम् ईदृक् यथादर्शितं
मम इदम् । व्यपेतभीः विगतभयः, प्रीतमनाश्च सन्
पुनः भूयः त्वं तदेव चतुर्भुजं रूपं शङ्खचक्रगदाधरं तब
इष्टं रूपम् इदं प्रपश्य ॥
 
संजय उवाच-
 
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
 
भूत्वा पुनः सौम्यवपुर्महात्मा ॥ ५० ॥
 
इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा,