Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
एकादशोऽध्यायः ।
 
३३१
 
</ignore>
<p>
मया प्रसन्नेन, प्रसादो नाम त्वयि अनुग्रहबुद्धिः,

तद्वता प्रसन्नेन मया तव हे अर्जुन, इदं परं रूपं विश्व-
 

रूपं दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात् ।

तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितं

आदौ भवम् आद्यं यत् रूपं मे मम त्वदन्येन त्वत्तः

अन्येन केनचित् न दृष्टपूर्वम् ॥
 
</p>
<p>
आत्मनः मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्तः इति

तत् स्तौति
 
</p>
<verse>
न वेदयज्ञाध्ययनैर्न दानै-
 

र्न च क्रियाभिर्न तपोभिरुयैःग्रैः

एवंरूपः शक्य अहं नृलोके
 

द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
 
</verse>
<p merge-next="true">
न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथा-

वत् यज्ञाध्ययनैश्व –च — वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्ध-

त्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् -

तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्नि-

होत्रादिभिः श्रौतादिभिः, न अपि तपोभिः उप्ग्रैः चान्द्रा-

यणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितं विश्वरूपं
 
</p>
</page>