Proofing

This page has not been fully proofread.

एकादशोऽध्यायः ।
 
३३१
 
मया प्रसन्नेन, प्रसादो नाम त्वयि अनुग्रहबुद्धिः,
तद्वता प्रसन्नेन मया तव हे अर्जुन, इदं परं रूपं विश्व-
 
रूपं दर्शितम् आत्मयोगात् आत्मनः ऐश्वर्यस्य सामर्थ्यात् ।
तेजोमयं तेजःप्रायं विश्वं समस्तम् अनन्तम् अन्तरहितं
आदौ भवम् आद्यं यत् रूपं मे मम त्वदन्येन त्वत्तः
अन्येन केनचित् न दृष्टपूर्वम् ॥
 
आत्मनः मम रूपदर्शनेन कृतार्थ एव त्वं संवृत्तः इति
तत् स्तौति—
 
न वेदयज्ञाध्ययनैर्न दानै-
 
र्न च क्रियाभिर्न तपोभिरुयैः ।
एवंरूपः शक्य अहं नृलोके
 
द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
 
न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथा-
वत् यज्ञाध्ययनैश्व – वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्ध-
त्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् -
तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्नि-
होत्रादिभिः श्रौतादिभिः, न अपि तपोभिः उप्रैः चान्द्रा-
यणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितं विश्वरूपं