Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३३० .
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
यत् मत्सखम् । प्रसीद देवेश, जगन्निवास जगतो निवासो

जगन्निवासः, हे जगन्निवास ॥
 
</p>
<verse>
किरीटिनं गदिनं चक्रहस्त-
 

मिच्छामि त्वां द्रष्टुमहं तथैव ।

तेनैव रूपेण चतुर्भुजेन
 

सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
 
</verse>
<p>
किरीटिनं किरीटवन्तं तथा गदिनं गदावन्तं चक्र-

हस्तम् इच्छामि त्वां प्रार्थये त्वां द्रष्टुम् अहं तथैव, पूर्ववत्

इत्यर्थः । यतः एवम् , तस्मात् तेनैव रूपेण वसुदेवपुत्ररूपेण

चतुर्भुजेन, सहस्रवाबाहो वार्तमानिकेन विश्वरूपेण, भव विश्व-

मूर्ते ; उपसंहृत्य विश्वरूपम् , तेनैव रूपेण भव इत्यर्थ:थः
 
</p>
<p>
अर्जुनं भीतम् उपलभ्य, उपसंहृत्य विश्वरूपम् , प्रियवच-

नेन आश्वासयन् श्रीभगवान् उवाच
 
</p>
<verse>
श्रीभगवानुवाच -
 

मया प्रसन्नेन तवार्जुनेदं
 

रूपं परं दर्शितमात्मयोगात् ।

तेजोमयं विश्वमनन्तमाद्यं
 

यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥
 
</verse>
</page>