Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
एकादशोऽध्यायः ।
 
३२९
 
</ignore>
<verse>
तस्मात्प्रणम्य प्रणिधाय कायं
 

प्रसादये त्वामहमीशमीड्यम् ।

पितेव पुत्रस्य सखेव सख्युः
 

प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४
 
</verse>
<p>
तस्मात् प्रणम्य नमस्कृत्य, प्रणिधाय प्रकर्षेण नीचैः

धृत्वा कार्यं शरीरम् , प्रसादये प्रसादं कारये त्वाम् अहम्

ईशम् ईशितारम् , ईड्यं स्तुत्यम् । त्वं पुनः पुत्रस्य अपराधं

पिता यथा क्षमते, सर्वं सखा इव सख्युः अपराधम् , यथा

वा प्रियः प्रियायाः अपराधं क्षमते, एवम् अर्हसि हे देव

सोढुं प्रसहितुम् क्षन्तुम् इत्यर्थः ॥
 
४४ ॥</p>
<verse>
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
 

भयेन च प्रव्यथितं मनो मे ।

तदेव मे दर्शय देव रूपं
 

प्रसीद देवेश जगन्निवास ॥ ४५ ॥
 
</verse>
<p merge-next="true">
अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव

मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मि । भयेन च

प्रव्यथितं मनः मे । अतः तदेव मे मम दर्शय हे देव रूपं
 
</p>
</page>