Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५७१
 
तत्र संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं वि-
 
स्मयो मे महान् राजन्, हृष्यामि च पुनः पुनः ॥
 
किंबहुना -
 
यत्र योगेश्वरः कृष्णो
 
यत्र पार्थो धनुर्धरः ।
 
तत्र श्रीर्विजयो भूति-
 
ध्रुवा नीतिर्मतिर्मम ॥ ७८ ॥
 
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
 
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
 
योगशास्त्रे श्रीकृष्णार्जुनसंवादे
मोक्षयोगो नाम
 
अष्टादशोऽध्यायः ॥
 
यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः, तत्प्र-
 
भवत्वात् सर्वयोगबीजस्य, कृष्णः, यत्र पार्थः यस्मिन्