Proofing

This page has not been fully proofread.

५७०
 
श्रीमद्भगवद्गीताभाष्ये
 
व्यांसप्रसादात् तत: दिव्यचक्षुर्लाभात् श्रुतवान् इमं
संवादं गुह्यतमं परं योगम्, योगार्थत्वात् ग्रन्थोऽपि योगः,
संवादम् इमं योगमेव वा योगेश्वरात् कृष्णात् साक्षात्
कथयतः स्वयम्, न परम्परया ॥
 
राजन् संस्मृत्य संस्मृत्य
संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं
 
हृष्यामि च मुहुर्मुहुः ॥ ७३ ॥
 
हे राजन् धृतराष्ट्र, संस्मृत्य संस्मृत्य प्रतिक्षणं संवादम्
इमम् अद्भुतं केशवार्जुनयो: पुण्यम् इमं श्रवणेनापि पापहरं
श्रुत्वा हृष्यामि च मुहुर्मुहुः प्रतिक्षणम् ॥
 
तच्च संस्मृत्य संस्मृत्य
रूपमत्यद्भुतं हरेः ।
 
विस्मयो मे महान्राजन्
 
हृष्यामि च पुनः पुनः ॥ ७७ ॥