Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५६९
 
परिसमाप्रः शास्त्रार्थः । अथ इदानीं कथासंबन्धप्र-
 
दर्शनार्थं संजयः उवाच --
 
संजय उवाच -
 
इत्यहं वासुदेवस्य
 
पार्थस्य च महात्मनः ।
संवादमिममश्रौष-
 
मद्भुतं रोमहर्षणम् ॥ ७४ ॥
 
इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मन:
संवादम् इमं यथोक्तम् अश्रौषं श्रुतवान् अस्मि अद्भुतम्
अत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरम् ॥
 
तं च इमम्--
 
व्यासप्रसादाच्छ्रुतवा-
निमं गुह्यतमं परम् ।
 
योगं योगेश्वरात्कृष्णा-
 
त्साक्षात्कथयतः स्वयम् ॥ ७५ ॥