2026-05-03 04:20:52 by ambuda-bot
This page has not been fully proofread.
,
अष्टादशोऽध्यायः ।
५६७
वान् सोऽपि पापात् मुक्तः शुभान् प्रशस्तान् लोकान्
प्राप्नुयात् पुण्यकर्मणाम् अग्निहोत्रादिकर्मवताम् ॥
शिष्यस्य शास्त्रार्थग्रहणाग्रहणविवेकबुभुत्सया पृच्छति ।
तदग्रहणे ज्ञाते पुनः ग्राहयिष्यामि उपायान्तरेणापि इति प्रष्टुः
अभिप्रायः । यन्नान्तरं च आस्थाय शिष्यस्य कृतार्थता
कर्तव्या इति आचार्यधर्मः प्रदर्शितो भवति—
कच्चिदेतच्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञानसंमोहः
प्रणष्टस्ते धनंजय ॥ ७२ ॥
कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं
पार्थ, त्वया एकाग्रेण चेतसा चित्तेन ? किं वा अप्रमादतः ?
कश्चित् अज्ञानसंमोहः अज्ञाननिमित्त: संमोह: अविवि-
क्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः ? यदर्थः अयं
शास्त्रश्रवणायासः तत्र, मम च उपदेष्टृत्वायासः प्रवृत्तः,
ते तुभ्यं हे धनंजय ॥
.