Proofing

This page has not been fully proofread.

५६६
 
श्रीमद्भगवद्गीताभाष्ये
 
ज्ञानयज्ञेन तेनाह-
 
मिष्टः स्यामिति मे मतिः ॥ ७० ॥
 
अध्येष्यते च पठिष्यति यः इमं धर्म्य धर्मादनपेतं
संवादरूपं ग्रन्थं आवयोः, तेन इदं कृतं स्यात् । ज्ञानय-
ज्ञेन - विधिजपोपांशुमानसानां यज्ञानां ज्ञानयज्ञः मान-
सत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य
अध्ययनं स्तूयते ; फलविधिरेव वा देवतादिविषयज्ञानयज्ञ-
फलतुल्यम् अस्य फलं भवतीति- तेन अध्ययनेन अहम्
इष्टः पूजितः स्यां भवेयम् इति मे मम मतिः निश्चयः ॥
 
अथ श्रोतुः इदं फलम् -
 
-
 
श्रद्धावाननसूयश्च
शृणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँल्लोका-
 
न्प्राप्नुयात्पुण्यकर्मणाम् ॥ ७१ ॥
 
श्रद्धावान् श्रद्दधानः अनसूयश्च असूयावर्जितः सन् इमं
ग्रन्थं शृणुयादपि यो नरः, अपिशब्दात् किमुत अर्थज्ञान-