Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५६५
 
'भगवतः परमगुरो: अच्युतस्य शुश्रूषा मया क्रियते' इत्येवं
कृत्वेत्यर्थः । तस्य इदं फलम् -- मामेव एष्यति मुच्यते
एव । असंशयः अत्र संशयः न कर्तव्यः ॥
 
किंच—
 
न च तस्मान्मनुष्येषु
 
कश्चिन्मे प्रियकृत्तमः ।
 
भविता न च मे तस्मा-
 
दन्यः प्रियतरो भुवि ॥ ६९ ॥
 
न च तस्मात् शास्त्रसंप्रदायकृतः मनुष्येषु मनुष्याणां
मध्ये कश्चित् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः,
अन्यः प्रियकृत्तमः, नास्त्येव इत्यर्थः वर्तमानेषु । न च
भविता भविष्यत्यपि काले तस्मात् द्वितीयः अन्यः प्रिय-
तरः प्रियकृत्तरः भुवि लोकेऽस्मिन् न भविता ॥
 
योऽपि—
 
अध्येष्यते च य इमं
 
धर्म्यं संवादमावयोः ।
 
S. B. II. 19