2026-05-03 04:20:50 by ambuda-bot
This page has not been fully proofread.
५६४
श्रीमद्भगवद्गीताभाष्ये
वति अनसूयायुक्ताय तपखिने भक्ताय शुश्रूषवे वाच्यं
शास्त्रम् इति सामर्थ्यात् गम्यते । तत्र ' मेधाविने तपस्विने
वा' इति अनयोः विकल्पदर्शनात् शुश्रूषाभक्तियुक्ताय तप-
स्विने तद्युक्ताय मेधाविने वा वाच्यम् । शुश्रूषाभक्तिवियु-
क्ताय न तपस्विने नापि मेधाविने वाच्यम् । भगवति असू-
यायुक्ताय समस्तगुणवतेऽपि न वाच्यम् । गुरुशुश्रूषाभक्ति-
मते च वाच्यम् इत्येषः शास्त्रसंप्रदायविधिः ॥
संप्रदायस्य कर्तुः फलम् इदानीम् आह-
य इमं परमं गुह्यं
मद्भक्तेष्वभिधास्यति ।
भक्तिं मयि परां कृत्वा
मामेवैष्यत्यसंशयः ॥ ६८ ॥
यः इमं यथोक्तं परमं परमनिःश्रेयसार्थं केशवार्जुनयो:
संवादरूपं प्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु
अभिधास्यति वक्ष्यति, ग्रन्थत: अर्थतश्च स्थापयिष्यती-
त्यर्थः, यथा त्वयि मया । भक्तेः पुनर्ग्रहणात् भक्तिमात्रेण
केवलेन शास्त्रसंप्रदाने पात्रं भवतीति गम्यते । कथम्
अभिधास्यति इति उच्यते-- भक्तिं मयि परां कृत्वा