2026-05-03 04:20:50 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५६३
र्तृत्वभोक्तृत्वाद्यनर्थः उपलभ्यते । तस्मात् भ्रान्तिप्रत्ययनि-
मित्तः एव अयं संसारभ्रमः, न तु परमार्थः ; इति सम्यग्द-
र्शनात् अत्यन्त एवोपरम इति सिद्धम् ॥
सर्व गीताशास्त्रार्थमुपसंहृत्य अस्मिन्नध्याये, विशेषतश्च
अन्ते, इह शास्त्रार्थदाय संक्षेपतः उपसंहारं कृत्वा, अथ
इदानीं शास्त्रसंप्रदाय विधिमाह -
इदं ते नातपस्काय
नाभक्ताय कदाचन ।
न चाशुश्रूषवे वाच्यं
न च मां योऽभ्यसूयति ॥ ६७ ॥
इदं शास्त्रं ते तत्र हिताय मया उक्तं संसारविच्छित्तये
अतपस्काय तपोरहिताय न वाच्यम् इति व्यवहितेन संब-
ध्यते । तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय
कदाचन कस्यांचिदपि अवस्थायां न वाच्यम् । भक्तः तपस्वी
अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम् ।
न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति
आत्मप्रशंसादिदोषाध्यारोपणेन ईश्वरत्वं मम अजानन् न
सहते, असावपि अयोग्यः, तस्मै अपि न वाच्यम् । भग-