2026-05-03 04:20:49 by ambuda-bot
This page has not been fully proofread.
'अष्टादशोऽध्यायः ।
५५९
त्तेष्टानिष्टानुभूतक्रियाफलजनित संस्कारपूर्वकाः हि स्मृतीच्छा-
प्रयत्नादयः । यथा अस्मिन् जन्मनि देहादिसंघाताभिमानरा-
गद्वेषादिकृतौ धर्माधर्मौ तत्फलानुभवश्च तथा अतीते अती-
ततरेऽपि जन्मनि इति अनादिरविद्याकृतः संसारः अतीतो-
ऽनागतश्च अनुमेयः । ततश्च सर्वकर्मसंन्याससहितज्ञाननि- '
ष्ठया आत्यन्तिकः संसारोपरम इति सिद्धम् । अविद्यात्मक-
त्वाच्च देहाभिमानस्य, तन्निवृत्तौ देहानुपपत्तेः संसारानुप-
पत्तिः । देहादिसंघाते आत्माभिमानः अविद्यात्मकः । न हि
लोके ' गवादिभ्योऽन्योऽहम् मत्तश्चान्ये गवांदयः' इति
जानन् तान् 'अहम्' इति मन्यते कश्चित् । अजानंस्तु स्था-
णौ पुरुषविज्ञानवत् अविवेकतः देहादिसंघाते कुर्यात् ' अहम्' .
इति प्रत्ययम्, न विवेकतः जानन् । यस्तु आत्मा वै
पुत्र नामासि' इति पुत्रे अहंप्रत्ययः, स तु जन्यजनकसंबन्ध-
निमित्त: गौणः । गौणेन च आत्मना भोजनादिवत् परमा-
र्थकार्य न शक्यते कर्तुम्, गौणसिंहाग्निभ्यां मुख्यसिंहानि-
कार्यवत् ॥
".
'अदृष्टविषय चोदनाप्रामाण्यात् आत्मकर्तव्यं गौणैः देहेन्द्रि-
यात्मभिः क्रियत एव इति चेत्, न; अविद्याकृतात्मत्वात्ते-
षाम् । न च गौणाः आत्मानः देहेन्द्रियादयः; किं तर्हि ? मिथ्या-