2026-05-03 04:20:47 by ambuda-bot
This page has not been fully proofread.
अष्टादशोऽध्यायः ।
५५३
दानुपपत्तेः धर्माधर्मोच्छेदानुपपत्तिः । नित्यानां च कर्मणां
पुण्यफलत्वश्रुतेः, 'वर्णा आश्रमाश्च स्वकर्मनिष्ठा:' इत्यादि-
स्मृतेश्च कर्मक्षयानुपपत्तिः ॥
ये तु आहु: - नित्यानि कर्माणि दुःखरूपत्वात् पूर्वकृ-
तदुरितकर्मणां फलमेव, न तु तेषां स्वरूपव्यतिरेकेण अन्यत्
फलम् अस्ति, अश्रुतत्वात्, जीवनादिनिमित्ते च विधानात्
इति । न, अप्रवृत्तानां कर्मणां फलदानासंभवात् ; दुःखफल-
' विशेषानुपपत्तिश्च स्यात् । यदुक्तं पूर्वजन्मकृतदुरितानां
कर्मणां फलं नित्यकर्मानुष्ठानायासदुःखं भुज्यत इति, तद-
सत् । न हि मरणकाले फलदानाय अनङ्कुरीभूतस्य कर्मणः
फलम् अन्यकर्मारब्धे जन्मनि उपभुज्यते इति उपपत्तिः ।
अन्यथा स्वर्गफलोपभोगाय अग्निहोत्रादिकर्मारब्धे जन्मनि
नरकफलोपभोगानुपपत्तिः न स्यात् । तस्य दुरितस्य दु:ख-
विशेषफलत्वानुपपत्तेश्च - अनेकेषु हि दुरितेषु संभवत्सु
भिन्नदुःखसाधनफलेषु नित्यकर्मानुष्ठानायासदुःखमात्र फलेषु
कल्प्यमानेषु द्वन्द्वरोगादिबाधनं निर्निमित्तं न हि शक्यते
कल्पयितुम्, नित्यकर्मानुष्ठानायास दुःखमेव पूर्वोपात्तदुरित-
फलं न शिरसा पाषाणवहनादिदुःखमिति । अप्रकृतं च
इदम् उच्यते— नित्यकर्मानुष्ठानायासदुःखं पूर्वकृतदुरित-