Proofing

This page has not been fully proofread.

५४८
 
श्रीमद्भगवद्गीताभाष्ये ·
 
मन्मनाः भव मच्चित्तः भव । मद्भक्तः भव मद्भजनो
भव । मद्याजी मद्यजनशीलो भव । मां नमस्कुरु नम-
स्कारम् अपि ममैव कुरु । तंत्र एवं वर्तमानः वासुदेवे
एव समर्पित साध्यसाधनप्रयोजनः मामेव एष्यसि आग-
मिष्यसि । सत्यं ते तव प्रतिजाने, सत्यां प्रतिज्ञां करोमि
एतस्मिन् वस्तुनि इत्यर्थः ; यतः प्रियः असि मे । एवं
भगवत: सत्यप्रतिज्ञत्वं बुद्ध्वा भगवद्भक्तेः अवश्यंभावि
मोक्षफलम् अवधार्य भगवच्छरणैकपरायणः भवेत् इति
वाक्यार्थः ॥
 
कर्मयोगनिष्ठायाः परमरहस्यम् ईश्वरशरणताम् उपसंहृत्य,
अथ इदानीं कर्मयोगनिष्ठाफलं सम्यग्दर्शनं सर्ववेदान्तसार-
विहितं वक्तव्यमिति आह-
 
सर्वधर्मान्परित्यज्य
 
मामेकं शरणं व्रज ।
 
अहं त्वा सर्वपापेभ्यो
 
मोक्षयिष्यामि मा शुचः ॥ ६६ ॥
 
सर्वधर्मान सर्वे च ते धर्माश्च सर्वधर्माः तान् — धर्मशब्दे-
न अत्र अधर्मोऽपि गृह्यते, नैष्कर्म्यस्य विवक्षितत्वात्, 'ना-