Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५४७
 
भूयोऽपि मया उच्यमानं शृणु-
 
सर्वगुह्यतमं भूयः
 
शृणु मे परमं वचः ।
 
इष्टोऽसि मे दृढमिति
 
ततो वक्ष्यामि ते हितम् ॥ ६४ ॥
 
सर्वगुह्यतमं सर्वेभ्यः गुह्येभ्यः अत्यन्तगुह्यतमम् अत्यन्त-
रहस्यम्, उक्तमपि असकृत् भूयः पुनः शृणु मे मम परमं
प्रकृष्टं वचः वाक्यम् । न भयात् नापि अर्थकारणाद्वा
वक्ष्यामि ; किं तर्हि ? इष्टः प्रियः असि मे मम दृढम् अव्य-
भिचारेण इति कृत्वा ततः तेन कारणेन वक्ष्यामि कथ-
यिष्यामि ते तव हितं परमं ज्ञानप्राप्तिसाधनम्, तद्धि सर्व-
हितानां हिततमम् ॥
 
किं तत् इति, आह--
 
मन्मना भव मद्भक्तो
 
मद्याजी मां नमस्कुरु ।
 
मामेवैष्यसि सत्यं ते
 
प्रतिजाने प्रियोऽसि मे ॥ ६५ ॥