Proofing

This page has not been fully proofread.

५४६
 
श्रीमद्भगवद्गीताभाष्ये
 
आरूढानि अधिष्ठितानि इव -- इति इवशब्दः अत्र द्रष्ट-
व्यः— यथा दारुकृतपुरुषादीनि यन्त्रारूढानि । मायया
च्छद्मना भ्रामयन् तिष्ठति इति संबन्धः ॥
 
तमेव शरणं गच्छ
 
सर्वभावेन भारत ।
 
तत्प्रसादात्परां शान्ति
 
स्थानं प्राप्स्यसि शाश्वतम् ॥ ६२ ॥
 
तमेव ईश्वरं शरणम् आश्रयं संसारार्तिहरणार्थं गच्छ
आश्रय सर्वभावेन सर्वात्मना हे भारत । ततः तत्प्रसादात्
ईश्वरानुग्रहात् परां प्रकृष्टां शान्तिम् उपरतिं स्थानं च मम
विष्णोः परमं पदं प्राप्स्यसि शाश्वतं नित्यम् ॥
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ ६३ ॥
 
इति एतत् ते तुभ्यं ज्ञानम् आख्यातं कथितं गुह्यात्
गोप्यात् गुह्यतरम् अतिशयेन गुह्यं रहस्यम् इत्यर्थः, मया
सर्वज्ञेन ईश्वरेण । विमृश्य विमर्शनम् आलोचनं कृत्वा
एतत् यथोक्तं शास्त्रम् अशेषेण समस्तं यथोक्तं च अर्थजातं
यथा. इच्छसि तथा कुरु ॥