2026-05-03 04:20:44 by ambuda-bot
This page has not been fully proofread.
यस्माच्च-
-
अष्टादशोऽध्यायः ।
५४५
स्वभावजेन कौन्तेय
निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहा-
त्करिष्यस्यवशोऽपि तत् ॥ ६० ॥
स्वभावजेन शौर्यादिना यथोक्तेन कौन्तेय निबद्धः निश्व-
येन बद्ध: स्वेन आत्मीयेन कर्मणा कर्तुं न इच्छसि यत्
कर्म, मोहात् अविवेकतः करिष्यसि अवशोऽपि परवश एव
तत् कर्म ॥
यस्मात्-
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥
ईश्वरः ईशनशील: नारायणः सर्वभूतानां सर्वप्राणिनां
हृद्देशे हृदयदेशे अर्जुन शुक्लान्तरात्मस्वभावः विशुद्धान्तः-
करण:- अहश्च कृष्णमहरर्जुनं च' इति दर्शनात्-
तिष्ठति स्थितिं लभते । तेषु सः कथं तिष्ठतीति,
.
. आह--
भ्रामयन् भ्रमणं कारयन् सर्वभूतानि यन्त्रारूढानि यन्त्राणि