Proofing

This page has not been fully proofread.

अष्टादशोऽध्यायः ।
 
५४३
 
सर्वकर्माण्यपि प्रतिषिद्धान्यपि सदा कुर्वाणः अनुतिष्ठन्
मद्वयपाश्रयः अहं वासुदेव: ईश्वरः व्यपाश्रयो व्यपाश्रयणं
यस्य सः मद्वयपाश्रयः मय्यर्पित सर्वभावः इत्यर्थः । सोऽपि
मत्प्रसादात् मम ईश्वरस्य प्रसादात् अवाप्नोति शाश्वतं नित्यं
वैष्णवं पदम् अव्ययम् !!
 
यस्मात् एवम्-
 
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।
वुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥५७॥
 
चेतसा विवेकबुद्धया सर्वकर्माणि दृष्टादृष्टार्थानि मय
ईश्वरे संन्यस्य यत् करोषि यदश्नासि' इति उक्तन्यायेन,
मत्परः अहं वासुदेव: परो यस्य तव सः त्वं मत्परः सन्
मय्यर्पितसर्वात्मभावः बुद्धियोगं समाहितबुद्धित्वं बुद्धियोग:
तं बुद्धियोगम् अपाश्रित्य अपाश्रयः अनन्यशरणत्वं मच्चित्तः
मय्येव चित्तं यस्य तव सः त्वं मञ्चित्तः सततं सर्वदा
 
भवः ॥
 
मच्चित्तः सर्वदुर्गाणि
मत्प्रसादात्तरिष्यसि ।