2026-05-03 04:20:43 by ambuda-bot
This page has not been fully proofread.
५४२
श्रीमद्भगवद्गीताभाष्ये
भिक्षाचर्यं चरन्ति ' ' तस्मान्नवासमेषां तपसामतिरिक्तमाहुः '
'न्यास एवात्यरेचयत्' इति । 'संन्यासः कर्मणां न्यासः
' वेदानिमं च लोकममुं च परित्यज्य ' ' त्यज धर्ममधर्म च '
इत्यादि । इह च प्रदर्शितानि वाक्यानि । न च तेषां वाक्या-
नाम् आनर्थक्यं युक्तम् ; न च अर्थवादत्वम्, स्वप्रकरणस्थ-
त्वात्, प्रत्यगात्माविक्रियस्वरूपनिष्ठत्वाच्च मोक्षस्य । न हि
पूर्वसमुद्रं जिगिमिषो: प्रातिलोम्येन प्रत्यक्समुद्रजिगमिषुणा
समानमार्गत्वं संभवति । प्रत्यगात्मविषयप्रत्ययसंतानकर-
णाभिनिवेशश्च ज्ञाननिष्ठा ; सा च प्रत्यक्समुद्रगमनवत् कर्मणा
सहमावित्वेन विरुध्यते । पर्वतसर्षपयोरिव अन्तरवान् वि-
रोधः प्रमाणविदां निश्चितः । तस्मात् सर्वकर्मसंन्यासेनैव
ज्ञाननिष्ठा कार्या इति सिद्धम् ॥
स्वकर्मणा भगवतः अभ्यर्चनभक्तियोगस्य सिद्धिप्राप्तिः
फलं ज्ञाननिष्ठायोग्यता, यन्निमित्ता ज्ञाननिष्ठा मोक्षफलाव-
साना । स: भगवद्भक्तियोगः अधुना स्तूयते शास्त्रार्थोपसं-
हारप्रकरणे शास्त्रार्थनिश्चयदायय--
सर्वकर्माण्यपि सदा कुर्वाणो मध्यपाश्रयः ।
मत्प्रसादादवाप्रोति शाश्वतं पदमव्ययम् ॥२६॥